|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.172. अध्यायः 172
Mahabharata - Shanti Parva - Chapter Topics
विरूपाक्षभटैर्बकशरीरस्य चितारोपणम्॥ 1॥ वाय्वानीतधेनुमुखस्रुतफेनपातेन चितास्थबकोज्जीवनम्॥ 2॥ ततो बकप्रार्थनया इन्द्रेण पुनरुज्जीवितस्य गौतमस्य स्वग्रामगमनम्॥ 3॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-172-0x(5871)(71867)
विद्वान्संस्कारयामास पार्थिवो राजधर्मणः।
गन्धैर्बहुभिरव्यग्रो दाहयामास पूजितम्॥ 12-172-1(71868)
तस्य देवस्य वचनादिन्द्रस्य बकराडिह।
तेनैवामृतसिक्ताश्च पुनः संजीवितो बकः॥ 12-172-2(71869)
राजधर्माऽपि तं प्राह सहस्राक्षमरिंदमम्।
गौतमो ब्राह्मणः क्वाऽसौ मुच्यतां मत्प्रियः सखा॥ 12-172-3(71870)
भीष्म उवाच। 12-172-4x(5872)
तस्य वाक्यं समाज्ञाय कौशिकः सुरसत्तमः।
गौतमं ह्यभ्यनुज्ञाप्य प्रीतोऽथ गमनोत्सुकः॥ 12-172-4(71871)
प्रतीतः स गतः सौम्यो राजधर्मा स्वमालयम्।
नृशंसो गौतमो मुक्तो मित्रध्रुक्पुरुषाधमः॥ 12-172-5(71872)
सभाण्डोपस्करो यातः स तदा शबरालयम्।
तत्रासौ शबरी देहे प्रसूतो निरयोपमे॥ 12-172-6(71873)
एष शापो महांस्तत्र मुक्तः सुरगणैस्तदा॥ 12-172-7(71874)
दग्धे राक्षसराजेन खगराजे प्रतापिना।
चितायाः पार्श्वतो दोग्ध्री सुरभिर्जीवयच्च तम्॥ 12-172-8(71875)
तस्या वक्राच्च्युतः फेनो दुग्धमात्रस्तदाऽनघ।
समीरणाहृतो यातश्चितां तां राजधर्मणः॥ 12-172-9(71876)
देवराजस्ततः प्राप्तो विरूपाक्षपुरं तदा।
विरूपाक्षोऽपि तं शक्रमयाचत पुनः पुनः।
काश्यपश्य सुतो देव भ्राता मे जीवतामिति॥ 12-172-10(71877)
विरूपाक्षमुवाचेदमीश्वरः पाकशासनः।
ब्रह्मणा व्याहृतो रोषाद्राजधर्मा कदाचन॥ 12-172-11(71878)
यस्मात्त्वं नागतो द्रष्टुं मम नित्यमिमां सभाम्।
तस्माद्बको भवान्भावी धर्मशीलः परात्मवित्॥ 12-172-12(71879)
आगमिष्यति ते वासं कदाचित्पापकर्मकृत्।
शबरावासगो विप्रः कृतघ्नो वृषलीपतिः॥ 12-172-13(71880)
यदा निहन्ता मोक्षस्ते तदा भावीत्युवाच तम्।
तस्मादेष गतो लोकं ब्रह्मणः परमेष्ठिनः॥ 12-172-14(71881)
भीष्म उवाच। 12-172-15x(5873)
स चापि निरयं प्राप्तो दुष्कृतिः कुलपांसनः॥ 12-172-15(71882)
एतच्छ्रुत्वा सभामध्ये तद्वाक्यं नारदेरितम्।
मयाऽपि तव राजेन्द्र यथावदनुवर्णितम्॥ 12-172-16(71883)
ब्रह्मघ्ने च सुरापे च चोरे भ्रष्टव्रते तथा।
निष्कृतिर्विहिता राजन्कृतघ्ने नास्ति निष्कृतिः॥ 12-172-17(71884)
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्।
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः॥ 12-172-18(71885)
मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः।
मित्रध्रुङ्गिरयं घोरं नरकं प्रतिपद्यते॥ 12-172-19(71886)
कृतज्ञमनसा भाव्यं मित्रभावेन चानघ।
मित्रात्प्रभवते सर्वं मित्रं धन्यतरं स्मृतम्॥ 12-172-20(71887)
अर्थाद्वा मित्रलाभाद्वा मित्रलाभो विशिष्यते।
सुलभा मित्रतोऽर्थास्तु मित्रेण यतितुं क्षमम्॥ 12-172-21(71888)
मित्रं चाभिमतं स्निग्धं फलं चापि सतां फलम्।
सत्कारैः स्वजनोपेतः पूजयेत विचक्षणः॥ 12-172-22(71889)
परित्याज्यो बुधैः पापः कदर्यः कुलपांसनः।
मित्रद्रोही कुलाङ्गारः पापकर्मा कुलाधमः॥ 12-172-23(71890)
एषा सज्जनसांनिध्ये प्रज्ञा प्रोक्ता मयाऽनघ।
मित्रदुहि कृतघ्ने च किं भूयः श्रोतुमिच्छसि॥ 12-172-24(71891)
वैशम्पायन उवाच। 12-172-25x(5874)
एतच्छ्रुत्वा ततो वाक्यं भीष्मेणोक्तं महात्मना।
युधिष्ठिरः प्रीतमना बभूव जनमेजय॥ ॥ 12-172-25(71892)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि द्विसप्तत्यधिकशततमोऽध्यायः॥ 172॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|